एतास्तरङ्गि—तनु—तोयपलायमानमीनानुसारिवकदन्तकरालपा/फालाः॥
अवतरति घनात्ययः किमन्यद् विकसितकञ्जमकेसरावतंसः।
परिसरपुलिनेषु निम्नगानां सपदि समागतराजहंसयूथः॥ २७॥
हंसानां निनदेषु यैः कबलितैरासज्यते कूजता— मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो निस्वनः।
ते संप्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः॥ २८॥
शरत्प्रौढिर्यथा—(ध्व. १. १३ लोचने)
ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधनाऽऽर्द्रनखक्षताभम्।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार॥ २९॥