भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 1849 verses
प्रसादमाकाङ्‍क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते॥ २५॥

(धीरोद्धतः —४४)

धीरोद्धतस्तु तामसः मध्यमकनिष्ठकानुकूलदक्षिणशठधृष्टासाधारणसाधारण— व्यतिकरात् चतुश्चत्वारिंशत्प्रकारः।

१. धीरोद्धतमध्यमो यथा—(मामा. ५.६१)

प्रणयिसखीसलीलपरिहासरसाधिगतै— लैलितशिरिषपुष्पहननैरपि ताम्यति यत्।

वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पतति शिरस्यकाण्डयमदण्ड इवैष भुजः॥ २६॥

२. धीरोद्धतकनिष्ठो यथा—(जाह. १०.८६)

एकस्मिञ्छयनें मया मयसुतामालिङ्ग्य निद्रालसा— मुन्निदं शयितेन मे चरणयोः संवाहनव्यापृता।

पादाग्रेण तिलोत्तमा स्तनतटे सस्‍नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति॥ २७॥

३. धीरोद्धतानुकूलो यथा—(मामा. ५.२७)

Showing 101 to 110 of 1849 verses