६. धीरोद्धतधृष्टो यथा—(माघ. ११.३४)
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम्।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ?॥ ३१॥
७. धीरोद्धतासाधारणो यथा—(मामा.५.३२)
धैर्यं निधेहि हृदये हत एष पापः किंवा कदाचिदपि केनचिदन्वभावि।
सारङ्गसंहृतिविधाविभकुम्भकूटकुट्टाकपाणिकुलिशस्य हरेः प्रमादः॥ ३२॥
लाक्षागृहानलविषान्नसभाप्रवेशैः॥ ३३॥
९. धीरोद्धतासाधारणानुकूलो यथा—(मामा. ७.४)