त्वत्पाणिपङ्कजपरिग्रहधन्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन् नृमांसपणनाय परेतभूमौ आकर्ण्य भीरु ! रुदितानि तवागतोऽस्मि॥ २८॥
अत्रान्तरे रणित/ललितहारलतानितम्ब॥ २९॥
चंदो वि राइं आहिंडिऊण गोसम्मि होइ विच्छाओ।
तुं पुण जाआपरिमलपसाहणो सोहसि भमंतो॥ ३०॥
(चन्द्रोऽपि रात्रिमाहिण्ड्य प्रभाते भवति विच्छायः।
त्वं पुनर्जायापरिमलप्रसाधनः शोभसे भ्रमन्॥)