शृङ्गारप्रकाशे पञ्चदशः प्रकाशः
यदुक्तं१ 'तैः सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते', तत्र प्रायेण रतिप्रीत्यै विभावादीन् उदाहरणतो वक्ष्यामः।
द्विविधो विभावः — आलम्बनविभाव उद्दीपनविभावश्च।
यमालम्ब्य रत्यादय उत्पद्यन्ते स आलम्बनविभावो नायकादिः। तत्र—
नायकश्चतुर्धा धीरोदात्त—धीरोद्धत—धीरललित—धीरप्रशान्तभेदात्।
धैर्यं हि नाम नायकव्यपदेशहेतुरिन्द्रियाविकारकारणं चित्तधर्मः, येन सतां