भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 841 verses
जन्म यथा—(शाकु. ५.२)

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितोऽपि जन्तुः।

तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थितानि/स्थिराणि जननान्तरसौहृदानि॥ ३५॥

अनुबन्धो यथा—(उराच. ६.१२, मामा. १.२७)

व्यतिषजति पदार्थानान्तरः कोऽपि हेतु— र्न खलु बहिरुपाधीन् प्रतीयः संश्रयन्ते।

विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥ ३६॥

प्रकर्षो यथा—(उराच. ३.४७)

एको रसः करुण एव निमित्तभेदाद् भिन्नः पृथक् पृथगिव श्रयते विवर्तान्।

आवर्तबुद्बुदतरङ्गमयान् विकारा— नम्भो यथा सलिलमेव हि तत् समग्रम्॥ ३७॥

सम्पर्को यथा— (मामा. ८.१४)

Showing 121 to 130 of 841 verses