याता नु तद् भगवती भवनं सखी नो जीवन्त्युपैष्यति न वेत्यथ शङ्कितोऽस्मि।
प्रायेण बान्धवसुहृत्प्रियसङ्गमादि सौदामनीस्फुरणचञ्चलमेष सौख्यम्॥ ३८॥
तदेतत् तर्काणामपथमपदं विश्ववचसा— मनाधारं बुद्धेर्नियतकरणग्रामसुहृदः।
यदालोके यूनां कनकफलकस्फारजघना घना लोका तन्वी किमपि कमनीयं जनयति॥ ३९॥
अर्थेषु यथामति ऊहो वितर्कः। तस्य
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशो मकरध्वजेन॥ ४०॥