प्रवृद्धा यथा—(मामा. १.४३)
पश्यामि तामितइतः पुरतश्च पश्चा— दन्तर्बहिः परित एव विवर्तमानाम्।
उद्धुद्धमुग्धकनकाब्जनिभं वहन्ती— मासङ्गतिर्यगपवर्तितदृष्टिवक्त्रम् ॥ २४॥
संपृक्ता यथा—(मामा. १.३२)
यान्त्या मुहुर्विलुलिताधरमाननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः॥ २५॥
अनुवर्तिनी यथा—(मामा. ४.१)
यद् व्यालव्रणितसुहृत्प्रमोहमुग्धं सौजन्याद् विहितवती गतव्यथ माम्।
तत्कामं प्रभवति पूर्णपात्रवृत्त्या स्वीकर्तुं मम हृदयं च जीवितं च॥ २६॥