अनुवर्तिनी यथा—(किराता. ८.३७)
प्रियेण संगृह्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥ २१॥
अभियोगप्रभवा आभियोगिकी। सापि पञ्चधा। तत्र जाता यथा—(मामा. १.३०)
स्तिमितविकासितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम्॥ २२॥
अनुबन्धिनी यथा—(मामा. १.३१)
अलसवलितमुग्धस्निग्धनिस्स्पन्दमन्दै— रधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्या कटाक्षै— रपहृतमपविद्धं पीतमुन्मूलितं च॥ २३॥