अथैतदुपाधेः कथाशरीरभागानां मुखादयः पञ्च व्यपदेशा भवन्ति—मुखं, प्रतिमुखं, गर्भो, विमर्शो, निर्वहणमिति। ते च बीजबिन्द्वादीनामर्थप्रकृतीनां सन्धानात् सन्धय उच्यन्ते।
मुखं प्रतिमुखं गर्भो विमर्शश्च तथैव हि।
तथा निर्वहणं चेति सन्धयः पञ्च नाटके॥ २१॥
३१.(७.१) तत्राधिकारिणो नायकादेः यत्र निरूपणं तत्र रससम्भवाः।
यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा।
कथाशरीरानुगतं तन्मुखं परिकीर्तितम्॥ २२॥
३२.(७.२) यत्र फलार्थायाः प्रवृत्तेरुपक्रमस्कन्धे तु यन्निरूपणं तत्प्रतिमुखम्। यथोच्यते—
बीजस्योद्धाटनं यत्र दृष्टनष्टमिव क्वचित्।