मुखे न्यस्तस्य दृश्येत तद्वै प्रतिमुखं स्मृतम्॥ २३॥
(नाशा. १९.३७) ३३.(७.३) यत्र क्रियाफलस्योद्भेदलाभनाशान्वेषणादयो जायन्ते स गर्भः। यथोच्यते—
उद्भेदः कार्यबीजस्य प्राप्तिरप्राप्तिरेव वा।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः॥ २४॥
३४.(७.४) क्रियाफलावाप्तये विचारनिर्णयो विमर्शः। यथोच्यते—
गर्भनिर्भिन्नबीजार्थः क्रोधव्यसनजोऽपि वा।
विप्रलम्भकृतो वापि विमर्श इति संज्ञितः॥२५॥
३५.(७.५) क्रियाफलेन सम्यग्योगो निर्वहणम्। यथोच्यते—