पौरुषप्राधान्ये संस्थाः। तासां तु प्रारम्भादयः पञ्च पर्वाणि।
प्रारम्भश्च प्रयत्नश्च तथा वै प्राप्तिसम्भवः।
नियता तु फलप्राप्तिः फलयोगश्च पञ्चमः॥ २०॥
अत्र प्रत्येकं प्रोपसर्गयोगात् पौरुषप्रकर्षोऽवभासते। पुरुषव्यापारेण बलात्कार्यसिद्धिः संस्थाप्यते इति इमाः संस्था उच्यन्ते। अर्थस्तु यः पूर्वेषां स एषामपीति।
(उभयप्राधान्ये समवस्थाः। तासां तु) प्रार्थनादयः पञ्चैव पर्वाणि। २६–३०.(६.१–६.५) प्रार्थना लाभसंयोगौ नाशस्संप्राप्तिरेव च॥
अत्र लाभनाशयोर्दैवस्य प्राधान्यं, प्रार्थनासंयोगयोः पौरुषस्य, संप्राप्तौ दैवपौरुषयोरिति न सर्वत्र प्रकर्षवाची प्रोपसर्गयोगो भवति। तत्र आरम्भप्रसवादयो अवस्था उषाहरणादिषु, प्रारम्भप्रयत्नादयः संस्थाश्चतुर्दारिकालाभादिषु प्रबन्धेषु उपवीथयो (उपाधयो) गृह्यन्ते।