१. णानि। बीजस्य यथा प्राचेत. जोशेर। एवमग्रेऽपि।
काव्या(र्या)र्थं च नेतारो यत्नमध्यासते। तस्य तस्य दैवपौरुषोभय— प्राधान्यादवस्थाः संस्थाः समवस्थास्त्रयो व्यपदेशाः जायन्ते। अवस्थादीनां च तिसॄणामप्यारम्भप्रार्थनादीनि पञ्च पञ्च पर्वाणि भवन्ति। तत्र दैवप्राधान्ये अवस्थास्तासामारम्भादयः पञ्च पर्वाणि।
आरम्भप्रसवोद्भेदकिञ्चिच्छेषसमाप्तयः ।
निर्दिष्टाः सूरिभिस्ते तु तेषां लक्षणमुच्यते॥ १६॥
(महतः) फलयोगस्य स खल्वारम्भ इष्यते। (नाशा. १९.८)
अपश्यतः फलप्राप्तिं यो व्यापारः फलं प्रति।
परं त्वौत्सुक्यगमनं प्रसवः स उदाहृतः॥ १७॥