भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 2002 verses
'मूर्ध्‍ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीन्'॥ १३b॥

इति पताकायाः, (राच. १५.६७, अत्रैव पृ.५१४)

मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद् भीतो महेन्द्रादपि।

तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं आः ज्ञातं स जटायुरेष जरसा क्लिष्टो वध वाञ्छति॥

(उरा. २.३१)

इति प्रकर्याः।

नीतो विक्रमबाहुरात्मसमतां प्राप्‍तेयमुर्वीतले सारं सागरिका ससागरमहीप्राप्‍त्येकहेतुः प्रिया।

प्रत्यावृत्तिमुपागता च भगिनीलाभेन देवी पुनः किं नास्ति त्वयि सत्यमात्यवृषभे यस्मिन् करोमि स्पृहाम्॥ १५॥

(रत्‍ना. ४.१९)

इति कार्यस्य।

Showing 81 to 90 of 2002 verses