यदाधिकारिकं वस्तु सम्यक् प्राज्ञैः प्रयुज्यते।
यदर्थश्च समारम्भस्तत्कार्यामिति कीर्तितम्॥ ११॥
अथैतेषामुदाहरणानि१— (मावीच. १.७)
प्राचेतसो मुनिवृषा प्रवरः कवीनां यत्पावनं रघुपतेः प्रणिनाय वृत्तम्।
भक्तस्य तत्र समरन्त ममापि वाचः ताः सुप्रसन्नमनसः कृतिनो भजन्ताम्॥ १२॥
हा वत्साः खरदूषणप्रभृतयो वध्याः स्थ पापस्य मे हा हा वत्स ! विभीषण ! त्वमपि मे कार्येण हेयः स्थितः।
हा मद् वत्सल ! वत्स ! रावण ! महत् पश्यामि ते सङ्कटं वत्से ! कैकसि ! हा हतासि न चिरं त्रीन् पुत्रकान् द्रक्ष्यसि॥ १३a॥
इति बिन्दोः। (मावीच. ४.११)