भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 71 to 80 of 1530 verses
स तु द्विधा प्रधानाङ्गभावेन, समकक्ष्यतया च। यदाह— (काव्याद. २.३६०)

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्ष्यता।

इत्यलङ्कारसंसृष्टेर्लक्षणीया द्वयी गतिः॥ ९॥

तत्र प्रधानस्योपकारित्वेन यद् वर्तते तदङ्गम्।

यत्तेनोपक्रियते तत्प्रधानम् (शाभा.३.१.२, वाप. २.८२)

तद्यथा— (काव्याद. २.३६१)

आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्।

कोशदण्डसमग्राणां किमेषामस्ति दुष्करम्॥ १०॥

अत्रारविन्दानि मुग्धे तव मुखश्रियमाक्षिपन्तीत्युपमा। कोशदण्डसमग्राणां किमेषामस्ति दुष्करमिति श्लेषोपसर्जनोऽर्थान्तरन्यासः। भवन्ति चारविन्दानि कोशदण्डसमग्राणि, तेन तेषां न किंचिदशक्यमस्ति। कोशदण्डयोर्विजयसाधनत्वात्। एतेन श्लेषस्य साधनभूतार्थसमर्पकत्वादुपमायास्तु प्रकृतसाध्यवस्तुविशेष— कत्वादर्थान्तरन्यासं प्रत्यङ्गभावो विज्ञायते।

ननु चैतद् वाक्यदोषाणामदोषप्रस्तावे शब्दहीनस्य क्‍वचिद् विवक्षातो गुणत्वमिति वर्णितम्। उक्तं च— (काव्याद. ४.२८)

Showing 71 to 80 of 1530 verses