भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 1530 verses
१. रसाभास इत्यर्थः — रे. २. अत्रैव द्र. पृ. ६५८

(१. वाक्यविषयः रसावियोगः)

वाक्यविषयोऽश्लीलामङ्गलघृणावदर्थं ग्राम्यमित्यादिदोषहानेन, दीप्‍तरसत्वं कान्तिरित्यादिगुणोपादानेन कैशिकीवैदर्भ्याद्यलङ्कारयोगेन च यद्यपि प्रसङ्गतस्तन्त्रयुक्त्या तत्रतत्रोपवर्णितस्तथापि गुणालङ्कारसन्निवेशविशेषजन्यत्वान्नानालङ्कारसंसृष्टावेव प्रकृष्टत्वं लभते।

प्रायेण हि गुणानामिव शब्दार्थोभयालङ्काराणामनुप्रासजातिरूपकादीनां काव्यशरीरेषु कामिनीशरीरेष्विव कटककेयूरकुण्डलादीनां केवलानामदर्शनात् संसृष्टिरेव प्रकृष्टं भूषणमवधार्यते। ततश्च—

भोजने मधुराम्ललवणषाडवानां,

वेष इव वस्त्रानुलेपनमाल्यविभूषणानां,

धूप इव चन्दनागरुकर्पूरसिद्धकानां,

सङ्गीत इव नृत्तवाद्यपाठ्यानां,

प्रेमणीव कोपानुशयप्रसादसङ्गमसुखानां,

गार्हस्थ्य इव धर्मार्थकाममोक्षसाधनानुष्ठानानां, काव्यशरीरेऽपि रूपकादीनां संसृष्टिरेव विशेषतः स्वदमाना रसावियोगहेतुर्भवति। अतः प्रागुपदिष्टापि यत्‍नतः प्रपञ्च्यते।

Showing 61 to 70 of 1530 verses