न तावत् दृष्टमनुपलभ्यमानत्वात्।
अदृष्टं तु साधारणमसधारणं वा।
साधारणे पूर्व एव दोषः, सर्वं जगद्रसिकं स्यादिति।
असाधारणं तु प्रत्यगात्मगतानादिवासनानुबन्धिधर्मकार्यं भवितुमर्हति। तं चात्मनोऽहङ्कारगुणविशेषं ब्रूमः। स शृङ्गारः, सोऽभिमानः, स रसः। तत एते रत्यादयो जायन्ते। तैश्चायं प्रकर्षप्राप्तैः सप्तार्चिरर्चिश्चयैरिव प्रकाशमानः शृङ्गारिणामेव स्वदत' इति।
तदुपाधिश्चायमुपजायमानो रसस्त्रिधा विख्यायते—
'प्रकृष्टो, भावरूप, आभासश्च'। तत्र—
यः कथाशरीरव्यापिन उत्तमनायकस्य तथाविध एव विषये जायते, स प्रकृष्टः।
मध्यमस्य य उपजातो (जायते) न प्रकर्षमासादयति स भावरूपः।
यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स शृङ्गाराभासः१।
तस्यावियोगो द्विधा— (१) वाक्यविषयः, (२) प्रबन्धविषयश्च।२ तयोः —