भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 1530 verses
न तावत् दृष्टमनुपलभ्यमानत्वात्।

अदृष्टं तु साधारणमसधारणं वा।

साधारणे पूर्व एव दोषः, सर्वं जगद्रसिकं स्यादिति।

असाधारणं तु प्रत्यगात्मगतानादिवासनानुबन्धिधर्मकार्यं भवितुमर्हति। तं चात्मनोऽहङ्कारगुणविशेषं ब्रूमः। स शृङ्गारः, सोऽभिमानः, स रसः। तत एते रत्यादयो जायन्ते। तैश्चायं प्रकर्षप्राप्‍तैः सप्‍तार्चिरर्चिश्चयैरिव प्रकाशमानः शृङ्गारिणामेव स्वदत' इति।

तदुपाधिश्चायमुपजायमानो रसस्त्रिधा विख्यायते—

'प्रकृष्टो, भावरूप, आभासश्च'। तत्र—

यः कथाशरीरव्यापिन उत्तमनायकस्य तथाविध एव विषये जायते, स प्रकृष्टः।

मध्यमस्य य उपजातो (जायते) न प्रकर्षमासादयति स भावरूपः।

यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स शृङ्गाराभासः१।

तस्यावियोगो द्विधा— (१) वाक्यविषयः, (२) प्रबन्धविषयश्च।२ तयोः —

Showing 51 to 60 of 1530 verses