भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 1770 verses
निश्चयः सुन्दरि तवोपरि मम सुरतस्पृहा अस्ति॥)

अस्या अपि ह्यनुकरणे साधुत्वमिष्यते॥

(२. गतिः —६)

गद्यपद्यमिश्रादिर्गतिः। सा षोढा—

द्रुता, मध्या, विलम्बिता, द्रुतमध्या, द्रुतविलम्बिता, मध्यविलम्बितेति। तत्र— पद्ये द्रुता यथा—

अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु ! वल्लभम्।

अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः॥ ८॥

मध्या यथा—

आसीद्दैत्यो हयग्रीवः सुहृद्वेश्‍मसु यस्य ताः।

प्रथयन्ति बलं बाह्वोः सितच्छत्रस्मिताः श्रियः॥ ९॥

Showing 51 to 60 of 1770 verses