भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 1676 verses
णोक्खी भल्ली स वंमहेण णिम्मिअ तइलोके वि।

जेहि विमुकी ते वि मुअ जह ण लग्गी ते वि ॥ ८ ॥

(नवीना भल्ली सा मन्मथेन निर्मिता त्रैलोक्येऽपि।

येभ्यो विमुक्ताः तेऽपि मृताः येभ्यो न लग्ना, तेऽपि ॥)

यथा वा—

मुक्ताः कन्धरया धृताः, स्तनतटेनोत्तुङ्गता कुम्भयो— रूरुभ्यां परिणाहिता क्रमवती हस्तस्य, पद्‍भ्यां गतिः।

एतद् वः करिघातिनस्तु कठिनं चर्मैव, कोऽयं हठ— श्चण्डीति त्रिपुरारिकेलिवचनैरार्यास्मितं पातु वः ॥ ९ ॥

(५. नान्तरीयकम्)

यत्सम्बन्धमन्तरेण क्रिया प्रधानेन सम्बध्यते तन्नान्तरीयकम्। तद्यथा— 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्'; (वाजिनस्य) पुनरनुनिष्पादित्वा— न्नान्तरीयकेण वाजिनेन सम्बध्यते। ओदनार्थे च पाके नान्तरीयकेण आचामादिना मक्षिकादयोऽनुगृह्यन्ते, अग्न्यर्थे निर्मथने नान्तरीयकेण धूमेन होतुरक्षिणी उपहन्येते। तदेतत् क्वचित् कविप्रयोगेषु वास्तवमवास्तवं च दृश्यते।

वास्तवं यथा— (रघु. ७.२६)

Showing 51 to 60 of 1676 verses