अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान् ॥ ५ ॥
येन प्रयुक्तः प्रवर्तते तत् प्रयोजकम् (शाभा. ४.१.२२)। तद् यथा—'स्वर्गो यागस्य, गार्हस्थ्यमर्थार्जनस्य, अतिथयः पाकस्य, राजा छत्रच्छायाया' (वाप. २) इति। तच्च न केवलं श्रेयस्येव प्रवर्तयति, अपि त्वश्रेयस्यपि। यथा—(मामा.५.२७)
त्वत्पादपङ्कजपरिग्रहपुण्यजन्मा भूयासमित्यभिनिवेशकदर्थ्यमानः।
भ्राम्यन्नृमांसपणनाय परेतभूमावाकर्ण्य भीरु रुदितानि तवागतोऽस्मि ॥ ६ ॥
अस्याः स्नेहभृतेन वानरपतिस्सेतौ मया क्लेशितो भ्राता मद्वदनैकवीक्षणपरः प्राणानयं त्याजितः।
दायादेन सह प्रवृत्तकलहे जात्यैव मुक्तायुधे निर्वैरे च निरागसि द्विषि तथा मुक्तः शरो वालिनि ॥ ७ ॥
स्वयं प्रयोक्तुमसमर्थोऽन्यप्रयुक्तेन कर्मणा यः सम्बध्यते सोऽप्रयोजकः। तद्यथा मांसप्रयुक्ते पाके घृतादिभिरस्थीन्यप्रयोजकानि सम्बध्यन्ते। स्नातृप्रयुक्तेन स्नानीयेना— प्रयोजिका स्नानशाटी युज्यते। राजप्रयुक्तया छत्रच्छाययाऽप्रयोजकोऽपि हस्ती सङ्गच्छत' इति। इदं चाप्रयोजकत्वमवास्तवमपि क्वचिदुक्तिमात्रेण दृश्यते। यथा—