अथ वाक्यान्यप्यवान्तरवाक्यावस्थायामसत्यानि? तर्हि अवान्तरवाक्यानामपि महावाक्यावस्थायां, महावाक्यानामपि विद्यास्थानावस्थायां, विद्यास्थानानामपि शब्दब्रह्मावस्थायां, शब्दब्रह्मणोऽपि परब्रह्मावस्थायां न सत्यत्वमिति न कस्यचित् किंचिदपि विचार्यं भवति।
अथाभेदवादिनामपि व्यवहारार्थमवश्यमेव भेदोऽभ्युपगन्तव्यः तद्गतदोषगुण— विचारणा चानुष्ठेया।
तर्ह्यसौ पदात् प्रभृत्येवारभ्यमाणा श्रेयसीति नस्तर्कः। पदेषु हि निर्दोषेषु गुणवत्सु च वाक्यमपि तदारब्धं तथाविधमेव भवति। यदाह—यादृशाद् वै जायते तादृश्येव भवति।
न च पदस्यात्यन्तमसत्यत्वं भवानपि मन्यते, योऽभिद्यमानावप्यविद्व— त्प्रतिपत्त्यर्थमन्वयव्यतिरेकाभ्यामपोद्धृत्य पदपदार्थौ भिन्नाविव पुनर्योजयति। यदि च सर्वथैवासत्यत्वमवाचकत्वं च पदानामभ्युपेयते, तत्तदारब्धवाक्यानामपि तथात्वे सर्वव्यवहारोच्छेदः प्राप्नोति॥
अपि चाखण्डवाक्यार्थपक्षे य एते पदार्थोपनिबन्धनाः वाक्यार्थविशेष— प्रतिपत्तिहेतवो वाक्येषु धर्मास्संदृश्यन्ते, तेऽपि पदानामानर्थक्यात् न प्राप्नुवन्ति।
प्रधानं, शेषः, प्रयोजकम्, अप्रयोजकम्, नान्तरीयकम्, मुख्यम्, गौणम्, व्यापकम्, लघु, गुरु, अर्थवादः, अनुवादः, भेदविवक्षा, अभेदविवक्षा, व्यवहितकल्पना, उपचारकल्पना, तद्भावापत्तिः, योग्यतापत्तिः, सम्बन्धाबाधनं, विकल्पः, समुच्चयः, नियमः, निषेधः, प्रतिनिधिः, ऊहः, बाधः, तन्त्रम्, प्रसङ्गः, आवृत्तिः, भेदः, (अतिदेशः)१ सामान्यातिदेशः, विशेषातिदेशः, अधिकारः, अध्याहारः, विपरिणामः, वाक्यशेषः, अवधिः, अपोद्धारः, अनिर्ज्ञातप्रश्नः, क्रियान्तरव्युदासः, लिङ्गाद् विभेदः, लिङ्गादिभेदः, शब्दान्तरादिभेदः, शक्त्यादिभेदः, श्रुत्यादिविनियोगः, श्रुत्यादिबलाबलम्, श्रुत्यादिक्रमः, क्रमसम्भेद इति।
तत्र साध्यमपरार्थं प्रधानं, सिद्धं पुनः परार्थं शेषः।