स चायं प्रधानशेषभावः शब्दशक्तेर्महिम्ना प्रवर्तमानो वस्तुनस्तथात्वमनपेक्ष्यैव प्रकाशते। तथा हि—
गुरुः प्रधानं परिचर्यमाणः शिष्यानुशिष्टौ स गुणत्वमेति।
तद्वद् गुडो भक्षयतौ प्रधानं, प्रीतौ पुनः स्यात् पुरुषस्य सोऽङ्गम् ॥ ३ ॥
इह तु सर्वमेव वाक्यजातमुदाहरणम्। न हि प्रधानगुणभावमन्तरेण वाक्ये पदानां समन्वयो भवति। तत्र साध्यत्वात् प्रधानं क्रिया, सिद्धत्वादप्रधानं कारकाणि।
क्वचित्तु कियाया अपि शेषत्वं भवति। यथा—(मामा. १.३०)
स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम्।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ४ ॥
१. मूले अतिदेशस्य स्थाने 'सामान्यातिदेशः विशेषातिदेश' इति लेखः। रा. पृ. ४९७, द्र. अत्र पृ.४७०
प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश! वृणते।