भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 11 to 20 of 1676 verses
दोषास्त्रिधा १. पददोषाः, २. वाक्यदोषाः, ३. वाक्यार्थदोषाश्च।

तत्र च वाक्यस्य प्रयोगयोग्यतायाः प्रयोगानर्हतायाश्च निश्चयार्थं विमर्शे पदगतदोषनिरूपणमनिपुणोपज्ञमिव विज्ञायते। न हि वाक्यावस्थायां पदानि पदार्था वा विद्यन्ते। यथा हि चित्रे नीलपीतरक्तादयः. पानके गुडामलकमरीचादयः, ग्रामरागे षड्जर्षभगान्धारादयः चित्रादिभ्यः पृथक्त्वेन नावभासन्ते, तथा वाक्येऽपि क्रियाकारकविशेषणादिपदानि तदर्था वा न वाक्यवाक्यार्थाभ्यां भेदेनैव प्रतीयन्ते।

वाक्यार्थो हि पदपर्यायैरखण्ड एवाभिधीयमानो दृश्यते। तद्यथा— मुण्डं करोति मुण्डयति, श्‍लोकैरुपस्तौति उपश्लोकयति, श्रुत्वा च्छन्दोऽधीते श्रोत्रियः, परस्य क्षेत्रेऽतिचरन् चिकित्स्यते क्षेत्रियः, स्त्रुघ्नमभिनिष्क्रामति द्वारं स्रौघ्‍नम्, कलापिषूद्‌भिद्यमानकलापेषु विगतकलापेषु वा देयमृणं कालापकम्, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, गौरवाय ह्वायकमिच्छति जिह्वायकीयिषति, अश्नीत पिबत इति सातत्येन यस्यां क्रियायां तामात्मनः इच्छत्यश्नीतपिबतीयति, दक्षिणे पार्श्वे लुब्धेन विषदिग्धेन शरेण मर्मणि निर्मितं व्रणं यस्य मृगस्य स दक्षिणेर्मा, दक्षिणात् समुद्रादद्रिराजं हिमवन्तं यावद् योजनानां दशशतीं विजयमानः समस्तरत्‍नानां य आयतनं स चक्रवर्ती। यो राजसूययाजी य ईश्वरो मण्डलस्य सकलस्य यश्चाज्ञयैव राज्ञः प्रशास्ति संराट् स विज्ञेय इति। अपि च ललाटं पश्यति लालटिकः, कुक्कुटीं चरतीति कौक्कुटिकः; तत्र ललाटदर्शनेन दूरे अवस्थानं लक्ष्यते, तेनानुपश्लेषकार्येषु चानुपस्थानम्; यः सेवकः स्वामिनः कार्येषु नोपयुज्यते, ललाटमेव वा यः कोपप्रसादसंरक्षणाय पश्यति स लालाटिक इत्युच्यते। तथा कुक्कुटीशब्देन कुक्कुटीपातो लक्ष्यते, तेन देशस्याल्पता; यो हि भिक्षुरविक्षिप्‍तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छंस्तावत्येव देशे चरति, यो वा तथाविधमात्मानमतथाविधोऽपि संदर्शयति, कुक्कुटीपातानां दाम्भिकानां चेष्टां वाचरति यस्सः कौक्कुटिक उच्यते।

एवं लोके लज्जाकरत्वादप्रकाश्यत्वेन कूपे प्रक्षेपणमिवार्हति यदकार्यं तत्कौपीनम्, तदिव यद्‍गूहनीयमङ्ग तदपि कौपीनम्; तस्य यदाच्छादकं वस्त्रखण्डं वल्कलादि तदपि कौपीनमेवोच्यते। किं च सिद्धस्यान्नस्य वर्धनायानाहूतापि योपतिष्ठते सा वध्रिका; तद्वदप्रार्थितोऽपि यः परिकर्मणि व्याप्रियते सोऽपि निन्द्यत्वेन वध्रिकेव वध्रिका; प्रशस्योऽपि विरुद्धलक्षणया हतभग्‍नादिवद्(?) यः तद्‍व्यपदेशभाग्भवति सोऽपि वर्धिका दर्शनीयो मनुष्य इति वर्धिकेत्येवोच्यते। तथा—

'अर्धं जरत्याः कश्चित् कामयतेऽर्धं परिहरति, एवं कश्चित् कार्यस्यार्धमाद्रियते अर्धमवजहाति, तत्रार्धमिव जरत्या यदर्धं कार्यस्य तस्य कामिन इव यदनुष्ठानं तदर्धजरतीयमित्युच्यते।' यथा चाविजानतोऽपि घुणकीटस्य यदृच्छया काष्ठमुत्किरतः कदाचिदक्षरमुत्तिष्ठति, तद्वदशास्त्रज्ञस्य यादृच्छिकं यदनवद्यकर्मनिर्माणं तद्‍घुणाक्षरीयमित्युच्यते।

एवं च यथा पदपर्यायवाक्यानां अखण्ड एवाविभक्तोद्देशविभाग एकोऽर्थोऽभिधे— यस्तथा देवदत्त गामभ्याज शुक्लां दण्डेनेत्येवमादीनां पदपर्यायाणामपि वाक्यानां सन्निविष्टेऽनेकशक्तिरूपः सर्वोपाधिविशिष्टक्रियात्मा नष्टोद्देशविभाग एक एव अभिधेयो भवति। पदानां तु प्रकृतिप्रत्ययादिवदविद्वत्प्रतिपत्त्यर्थमेव अन्वयव्य— तिरेकाभ्यां व्यावहारिकोऽर्थापोद्धारः शब्दापोद्धारश्च क्रियते। अपोद्धृतानां च विनिविष्टभेदानामिव पुनर्योगो विधीयते। न चैतावता तद्गतदोषगुणनिरूपणमपि विधेयं भवति। न हि दर्शनीयं चित्रं स्वादु पानकं श्राव्यो ग्रामराग इति वक्तव्ये कश्चिदभिधत्ते शोभना नीलदयो गुडादयः षड्जादयो वेति।

उच्यते— अप्यायुष्मान् पदपदार्थानामिव वाक्यावस्थायां, वाक्यवाक्यार्था— नामप्यवान्तरवाक्यावस्थायामसत्यत्वं मन्यते? यथा दुह्यतां गौः, उपाध्यायस्तत्पयसा भुक्त्वा मामध्यापयतु, येन मामधियानं दृष्ट्वा पिता तुष्यति, तुष्टश्च मोदकान्मे ददातीति।

किं चातः?

यदि मन्यते, पदैः किमपराद्धं, येन तद्‌गतदोषगुणनिरूपणं न मृष्यते ?

अथ न मन्यते, तथापि पदैः किमपराद्धम्, येन तुल्येऽप्यारम्भकत्वे पदानामेवासत्यत्वमभ्युपगम्यते, न वाक्यानाम्।

Showing 11 to 20 of 1676 verses