साधारणी यथा—(रुद्रट. ४.२१)
क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति॥ ५॥
भीष्मप्रोक्तानि वाक्यानि विद्वद्वक्त्रेषु शेरते।
गोसे तिविञ्छिरिच्छोली तल्ल तूहे विवल्लिदा॥ ६॥
मुद्धे गहणअ गेण्हउ तं धरि मुद्दं णिए हत्थे।
णिच्चउ सुन्दरि तुह उवरि मम सुरअप्पहा अत्थि॥ ७॥
(मुग्धे ग्रहणकं (रतमूल्यं) गृहाण त्वं धारय मुद्रां निजे हस्ते।