विलम्बिता यथा— (प्रप्राभा. मङ्गलश्लोकः)
प्रणम्य हेतुमीश्वरं मुनिं कणादमन्नतः।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः॥ १०॥
द्रुतमध्या यथा—(रघु. ९.६७)
अथ तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्मीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ ११॥
अवतु वः सवितुस्तुरगावली समभिलङ्घिततुङ्गपयोधरा।
स्फुरितमध्यगतारुणनायका मरकतैकलतेव नभःश्रियः॥ १२॥
मध्यविलम्बिता यथा—(राच. ११.११६)