क्षोभस्फुटन्मुकुटकोटिविघट्टितानां नादोऽभवज्झणझणामुखरो मणीनाम्॥ १५॥
यथाशक्ति समस्तपदा गौडीया, यथा—
यस्यावस्कन्दलीलाचलितबलपरिस्पन्दखर्वीकृतोर्वी— संरम्भस्तम्भनाग्रोन्नमितभरनमत्कन्धरासन्धिरासीत् ।
शेषो विस्फारफुल्लस्फुटपृथुलफणाफूत्कृताग्निस्फुलिङ्ग— स्फूर्जत्सन्दोहसन्देहितविकटशिखामण्डलीरत्नखण्डः ॥ १६॥
वैदर्भादीनामन्तरालरीतिरावन्तिका, यथा
एतानि निस्सहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति पदानि तस्याः।
एते च मार्गतरवः प्रथयन्ति ताप— मालम्बितोज्झितपरिग्लपितैः प्रवालेः॥ १७॥
अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम्।
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोडताम्रस्तमांसि॥ १८॥