अनेकविषयं व्यापकम्। तद्यथा— अातुरानातुरयोर्भोजनप्रक्लृप्तावातुरभोजन— मनातुरोऽपि प्रतिपद्यते। यथा— (गास. ३.२५)
अद्धच्छिपेच्छिअं मा करज्ज साहाइअं पुलोएसु।
सो वि सुदिठ्ठो होहिइ तुमं पि मुद्धा कलिज्जिहिसि ॥ १५ ॥
(अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविकं प्रलोकय।
सोऽपि सृदृष्टो भविष्यति त्वमपि मुग्धा कलयिष्यसे ॥)
एतेन बहुविषयमपि व्याख्यातम्। तद् द्विविधं क्रियाविषयं कारकविषयं च। तयोराद्यं यथा— (कुमा. ३.२०)
द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते।
शय्या निशीथकलहे हरिणेक्षणायाः लब्धं मया विधिवशादिदमुत्तरीयम् ॥ १६ ॥
सीसे सेहरु खणु विणिम्मविदुखणु कंठे पालंबु किदु रइए।