दन्तोज्ज्वलासु विमलोपलमेखलान्ता—
स्सद्रत्नचित्रकटकासु बृहन्नितम्बाः।
अस्मिन् भजन्ति घनकोमलगण्डशैला
नार्योऽनुरूपमधिवासमधित्यकासु॥ १६॥
अत्र सप्तम्यन्तानि प्रथमान्तानि च विशेषणानि नारीरधित्यकाश्च विभक्तिविपरिणामतो विशेषयन्ति। एतेन वचनविभक्तिविपरिणामो लिङ्गविपरिणामश्च व्याख्यातः। तयोराद्यो यथा—(माघ. १२.३)
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया।
सत्यानुरक्तं नरकस्य जिष्णवो गुणौर्नृपाः शार्ङ्गिणमन्वयासिषुः॥ १७॥
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः।
भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इवाभिबभुरावलयो रथानाम्॥ ९८॥