दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम्॥ १७॥
अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम्।
खल तां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः॥ १८॥
३. वस्तुनः सन्निवेशविशेषेणावस्थानं विवर्तः। यथा— (किराता ५.३९)
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिरुहोद्भवः परागः।
वात्याभिर्वियति विवर्त्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥ १९॥
अस्मिन्नीषद्—वलित—विषम—स्तोक—विच्छिन्न—भुग्नः किञ्चिल्लीनो विपिनविनतः पुञ्चितश्चोत्थितश्च।
धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरानभ्रभङ्गान्॥ २०॥