१. जानतोऽप्यतस्मिंस्तदेतदित्यारोपणम् अध्यासः। यथा— (गास. ६.७०)
अइ दिअर किं ण पेच्छसि आआसं किं मुहा पुलोएसि।
जाआए बाहुमूलम्मि अद्धअंदाण परिपाडिंवाडिं॥ १५॥
(अयि देवर, किं न प्रेक्षसे, आकाशं किं मुधा प्रलोकयसि।
जायाया बाहुमूलेऽर्धचन्द्राणां परीपाटीम्॥)
कमलमनम्भासि कमले च कुवलये तानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम्॥ १६॥
२. असतोऽप्युत्प्रेक्षा कल्पना यथा—
गुणानुरागमिश्रेण यशसा तव सर्पता।