६. पिता माता शत्रुः सूनुरौपगव इत्यादिः सम्बन्धविषया यथा— (विक्रमो. ४.३८)
सूर्यचन्द्रमसौ यस्य मातामहपितामहौ।
स्वयंवृतपतिर्द्वाभ्यामूर्वश्या च भूवा च यः॥ १३॥
सपदी सखीभिर्निभृतं विरहवतीस्त्रातुमत्र भज्यन्ते।
सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे॥ १४॥
अर्थस्यातथात्वेऽध्यासादिभिस्तथात्वापादनं तद्भावापत्तिः।
सापि षोढा— अध्यासात्मिका, कल्पनात्मिका, विवर्तात्मिका, विपरिणामात्मिका, विपर्ययात्मिका, प्रवादात्मिका चेति। तत्र—