यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम्॥ ८॥
यतस्तदौषधमेकस्यापि दीयमानं वातादिविकारं शमयितुं शक्नोति। एवं तर्हि यत्र पराङ्गतया जातिर्विधीयते, तत्र संख्या विवक्ष्यते, यत्र तु स्वसंस्कारप्रतिपत्तयेऽनूद्यते तत्र न विवक्ष्यते। यथा पशुना यजेत, ग्रहं संमार्ष्टीति। तदेतदुभयमपि उदाहरणमात्रेणाशक्यं प्रतिपत्तुमिति युक्तिरभिधातव्या। सेयमुच्यते—पशुना यजेतेति यागस्य फलवत्तया प्राधान्यं, तदङ्गं पशुः, अङ्गं च यत्प्रधानस्योपकरोति। एकेनैव पशुना कृतः प्रधानस्योपकार इति द्वितीयो नोपादीयते। यदि हि यस्य यावन्तः पशवस्सन्ति स तावत उपादत्त इत्याश्रीयते, प्रकृतस्य यागस्यैकेन पशुना, समापितत्वादितरवैयर्थ्यं मा भूदिति यागान्तराणि क्रियन्ते। गुणेन द्रव्येण प्रधानं यागः प्रयुक्तस्स्यात्। न चैष न्यायो यद्गुणः प्रधानं प्रयुङ्क्ते। किंच पशुमालभेत, पशुना यजेतेत्यादौ क्रियाङ्गभावेनाप्रज्ञातस्य पशोस्साधनभावप्रख्यापनायेदमुत्पत्तिवाक्यम्। तत्र शब्ददर्शनावसेयत्वादर्थस्य यथाभूतं शब्द आह तथाभूतस्सोऽर्थोऽनुगततया समाश्रीयते। शब्देऽन्वयव्यतिरेकाभ्यां प्रकृतेर्जातिरिव विभक्तस्संख्याभिधेयत्वेनावधार्यते। यदि च द्वितीयस्य पशोरूपादानमन्तरेण शब्दार्थो न समाप्येत, क्रिया वा न निवर्त्येत, तदोपदीयेतापि द्वितीयः। पशुत्वजातेश्च प्रतिव्यक्त्यविकल्पात्मनः समाप्तत्वादेकपश्वदानैश्च यागक्रियाभिनिर्वृत्तेर्द्वितीयो नोपादीयते।
न च पशुना यजेतेत्यस्यास्संख्याया विरोधिनी संख्या उत्पात्तिवाक्यगता काचिद्विद्यते यदनुरोधादियं त्यज्येत, यस्मादिदमेव पशोरूत्पत्तिवाक्यम्, अतश्शब्दवत्त्वात् सङ्ख्यान्तरेण चाविरोधात्। पशुना यजेतेत्यादौ सङ्ख्या विवक्ष्यते, ग्रहं संमार्ष्टीत्यत्र तु न विवक्ष्यते। यस्मात् प्राजापत्या नव ग्रहा भवन्तीत्यादौ ग्रहाणामुत्पत्तिवाक्ये या अनेकत्वसङ्ख्या सा प्रधानविषया, तत्र ग्रहाणां विंधीयमानत्वात्। ग्रहं संमार्ष्टीत्यत्र तु या एकत्वसंख्या सा शेषविषया, सम्मार्गस्यं विधीयमानत्वात्, तदधिकरणसंपदनार्थत्वाद् ग्रहशब्दस्य।
न च युक्तं यत्प्रधानसम्बन्धिनी संख्या शेषसंख्यया बाध्यते।
ननु चोत्पत्तिवाक्यवशेनानेक एव ग्रहो गृह्येत। ग्रहमित्येतस्माच्चैक— वचनादेकस्सम्मृज्येत। किमत्र बाधितं स्यात् ? एवं तर्हि विधानवाक्ये पूर्वमेव प्रज्ञाताङ्गभावाः सम्मार्गमपूर्वं विधातुं केवलं ग्रहमित्यनेन स्मृतौ संनिवेश्यन्ते।
ग्रहस्मृतिश्चानुभवसामर्थ्यादुद्भवन्ती यथानुभूतानेवार्थान् दर्शयतीति नैको ग्रहस्संमृज्यते।
ननु च यथा पूर्वानुभूतचमसाद्यनेकपदार्थसन्निधौ संमार्गविधानाय ग्रहश्रुति— र्ग्रहाणामेव स्मारयति न चमसादीनां तथैवानेकग्रहसंन्निधावेकवचनमेकस्यैव स्मारयेत्। येन हि बहवोऽनुभूतास्तेनैकोऽप्यनुभूत एव।
सत्यमेतत्, किन्तु प्रतीयमानोऽप्यसौ संख्याभेदः क्रियां प्रत्यविधीय— मानत्वादसमर्थः क्रियामेकस्मिन्नवस्थापयितुम्। अविधीयमानश्च संख्याभेदः, यतोऽत्रश्रुत्या ग्रहस्य संमार्गो विधीयते। तदेतावति पर्यवसितं वाक्यम्। न चापरश्शब्दोऽस्ति, येनैकस्य स विधीयेत। न चैकश्शब्द उभयं शक्नोति विधातुम् अप्रज्ञातं संमार्गं प्रज्ञातस्य चैकत्वेन संबन्धमिति, प्रवृत्तिभेदात्।
अथ ग्रहैकत्वाभ्यां विशिष्टस्संमार्गो विधीयते, न भिद्येत प्रवृत्तिः; अर्थस्तु नैवं, यतो ग्रहार्थः संमार्गस्तस्य प्रयोजनवत्त्वात्।
विभक्तिविशेषश्च प्राधान्यं ग्रहस्य दर्शयति। अतो न विधीयते सङ्ख्या।