भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 61 to 70 of 595 verses
यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम्॥ ८॥

यतस्तदौषधमेकस्यापि दीयमानं वातादिविकारं शमयितुं शक्‍नोति। एवं तर्हि यत्र पराङ्गतया जातिर्विधीयते, तत्र संख्या विवक्ष्यते, यत्र तु स्वसंस्कारप्रतिपत्तयेऽनूद्यते तत्र न विवक्ष्यते। यथा पशुना यजेत, ग्रहं संमार्ष्‍टीति। तदेतदुभयमपि उदाहरणमात्रेणाशक्यं प्रतिपत्तुमिति युक्तिरभिधातव्या। सेयमुच्यते—पशुना यजेतेति यागस्य फलवत्तया प्राधान्यं, तदङ्गं पशुः, अङ्गं च यत्प्रधानस्योपकरोति। एकेनैव पशुना कृतः प्रधानस्योपकार इति द्वितीयो नोपादीयते। यदि हि यस्य यावन्तः पशवस्सन्ति स तावत उपादत्त इत्याश्रीयते, प्रकृतस्य यागस्यैकेन पशुना, समापितत्वादितरवैयर्थ्यं मा भूदिति यागान्तराणि क्रियन्ते। गुणेन द्रव्येण प्रधानं यागः प्रयुक्तस्स्यात्। न चैष न्यायो यद्‍गुणः प्रधानं प्रयुङ्क्ते। किंच पशुमालभेत, पशुना यजेतेत्यादौ क्रियाङ्गभावेनाप्रज्ञातस्य पशोस्साधनभावप्रख्यापनायेदमुत्पत्तिवाक्यम्। तत्र शब्ददर्शनावसेयत्वादर्थस्य यथाभूतं शब्द आह तथाभूतस्सोऽर्थोऽनुगततया समाश्रीयते। शब्देऽन्वयव्यतिरेकाभ्यां प्रकृतेर्जातिरिव विभक्तस्संख्याभिधेयत्वेनावधार्यते। यदि च द्वितीयस्य पशोरूपादानमन्तरेण शब्दार्थो न समाप्येत, क्रिया वा न निवर्त्येत, तदोपदीयेतापि द्वितीयः। पशुत्वजातेश्‍च प्रतिव्यक्त्यविकल्पात्मनः समाप्‍तत्वादेकपश्वदानैश्‍च यागक्रियाभिनिर्वृत्तेर्द्वितीयो नोपादीयते।

न च पशुना यजेतेत्यस्यास्संख्याया विरोधिनी संख्या उत्पात्तिवाक्यगता काचिद्‌विद्यते यदनुरोधादियं त्यज्येत, यस्मादिदमेव पशोरूत्पत्तिवाक्यम्, अतश्शब्दवत्त्वात् सङ्ख्यान्तरेण चाविरोधात्। पशुना यजेतेत्यादौ सङ्ख्या विवक्ष्यते, ग्रहं संमार्ष्‍टीत्यत्र तु न विवक्ष्यते। यस्मात् प्राजापत्या नव ग्रहा भवन्तीत्यादौ ग्रहाणामुत्पत्तिवाक्ये या अनेकत्वसङ्ख्या सा प्रधानविषया, तत्र ग्रहाणां विंधीयमानत्वात्। ग्रहं संमार्ष्‍टीत्यत्र तु या एकत्वसंख्या सा शेषविषया, सम्मार्गस्यं विधीयमानत्वात्, तदधिकरणसंपदनार्थत्वाद् ग्रहशब्दस्य।

न च युक्तं यत्प्रधानसम्बन्धिनी संख्या शेषसंख्यया बाध्यते।

ननु चोत्पत्तिवाक्यवशेनानेक एव ग्रहो गृह्येत। ग्रहमित्येतस्माच्‍चैक— वचनादेकस्सम्मृज्येत। किमत्र बाधितं स्यात् ? एवं तर्हि विधानवाक्ये पूर्वमेव प्रज्ञाताङ्गभावाः सम्मार्गमपूर्वं विधातुं केवलं ग्रहमित्यनेन स्मृतौ संनिवेश्यन्ते।

ग्रहस्मृतिश्‍चानुभवसामर्थ्यादुद्‍भवन्ती यथानुभूतानेवार्थान् दर्शयतीति नैको ग्रहस्संमृज्यते।

ननु च यथा पूर्वानुभूतचमसाद्यनेकपदार्थसन्निधौ संमार्गविधानाय ग्रहश्रुति— र्ग्रहाणामेव स्मारयति न चमसादीनां तथैवानेकग्रहसंन्निधावेकवचनमेकस्यैव स्मारयेत्। येन हि बहवोऽनुभूतास्तेनैकोऽप्यनुभूत एव।

सत्यमेतत्, किन्तु प्रतीयमानोऽप्यसौ संख्याभेदः क्रियां प्रत्यविधीय— मानत्वादसमर्थः क्रियामेकस्मिन्नवस्थापयितुम्। अविधीयमानश्‍च संख्याभेदः, यतोऽत्रश्रुत्या ग्रहस्य संमार्गो विधीयते। तदेतावति पर्यवसितं वाक्यम्। न चापरश्शब्दोऽस्ति, येनैकस्य स विधीयेत। न चैकश्शब्द उभयं शक्‍नोति विधातुम् अप्रज्ञातं संमार्गं प्रज्ञातस्य चैकत्वेन संबन्धमिति, प्रवृत्तिभेदात्।

अथ ग्रहैकत्वाभ्यां विशिष्‍टस्संमार्गो विधीयते, न भिद्येत प्रवृत्तिः; अर्थस्तु नैवं, यतो ग्रहार्थः संमार्गस्तस्य प्रयोजनवत्त्वात्।

विभक्तिविशेषश्‍च प्राधान्यं ग्रहस्य दर्शयति। अतो न विधीयते सङ्ख्या।

Showing 61 to 70 of 595 verses