दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन।
सस्वदे मुखसुरं प्रमदानां नाम रूढमपि च व्युदपादि॥ ६॥
द्वितीयो न माषाणामश्नीयादिति यथा—(कुसं. ५.८३)
निवार्यतामालि! किमप्यसौ वटुः पुनर्विवक्षुः सफुरितोत्तराधरः।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यस्स पापभाक्॥ ७॥
सहार्थतादर्थ्यहेतुलक्षणोपपदसम्बोधनादयस्तु सम्बन्धविशेषा उपस्काराधिकारेऽ— भिहिता (द्र.पृ.२६५) इति नेह प्रतन्यते। ननु च सम्बन्धस्य क्रियाकारकपूर्वकत्वात् कारकेष्वेव शेषसम्बन्धस्याप्यन्तर्भाव इति सङ्ख्या शक्तिश्च विभक्त्यर्थः।
तत्र जातौ पदार्थे जात्यभिधायिनः प्रातिपदिकस्य सङ्ख्याकारकाभिधायिन्या विभक्त्या सम्बन्धो न घटते। न हि जातेः सङ्ख्याशक्तियोगस्संभवति।
उच्यते, जात्यविनाभावेन लक्षिताया व्यक्तेः सङ्ख्याशक्तियोगादेकार्थसमवाय— लक्षणस्सम्बन्धो भविष्यति।
नैवम्; यथानन्त्यव्यभिचाराभ्यां भेदवतीं व्यक्तिमशक्ताः प्रकृतयोऽभिधातुमित्य— भिन्नामव्यभिचारिणीं च जातिमाचक्षते, तथाधारभेदाद्भिन्नमानन्त्यभिचाराभ्यामशक्ता विभक्तयः शक्तिं सङ्ख्यां चाख्यातुम् अतस्तदाधारं शक्तिसङ्ख्याजातिमाचक्षते। ततश्च प्रकृत्यर्थसम्बन्धाया अपि व्यक्तेर्विभक्त्यर्थेन शक्तिसङ्ख्यासामान्येनासम्बन्धादनुपपन्न एव प्रकृतिप्रत्यययोः समभिव्याहारः।
नानुपपन्नः, एकार्थसमवेतसमवायेन तदुपपत्तेः।