मुखेन राहोरभियोक्तुमुद्यतं कलावतो बिम्बमिव व्यराजत॥ ३॥
कारकेभ्योऽन्यत्वे उपात्तक्रियोऽनुपात्तक्रियश्च।
तयोराद्योऽन्नस्य हेतोर्वसतीति यथा— (रघु.२.४७)
एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च।
अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम्॥ ४॥
द्वितीयो ब्राह्मणस्य तुल्य इति यथा— (रघु. ६.७९)
कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः।
त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन॥ ५॥
कारकविवक्षायां द्रव्यापेक्षः क्रियापेक्षश्च।
तयोराद्यः साधोः स्वं धनं रोचत इति यथा— (माघ.१०.२३)