भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 595 verses
कथं पुनस्सामान्याभिधानेनाभिधीयमानयोस्सङ्ख्याद्रव्ययोः परस्परेण सम्बन्धः? यथाभिधीयमानयोः। यथा शब्देनाभिहितावर्थौ बुद्धौ विपरिवर्तमानौ मिथस्सम्बध्येते तथा शब्देनाभिहितादर्थात् प्रतीयमानावपि परस्परेण सम्बन्धमनुभविष्यत इति।

किं पुनरियं सङ्ख्या शक्तिर्वा नियोगतो जातिमवच्छिनत्ति ?

नेत्याह। न हि ग्रहं समार्ष्टीति श्रूयमाणमेकवचनमेकत्वसङ्ख्यां क्रियाङ्गभावेन प्रतिपादयति। नापि सक्तून् जुहोतीति द्वितीया श्रुतिः सक्तूनां होमक्रियायां कर्मशक्तिमभिधत्ते। अपि त्वक्षान्दीव्यतीतिवत् संबन्धसामान्यतिरोहितकर्मरूपान् सक्तून् साधकतमत्वेन होमकर्मणि नियुङ्क्ते। क्‍वचित्तु तद्रूपयैव विभक्तिश्रुत्या संख्याकर्मादिशक्तीनां क्रियास्वङ्गभावोऽवबोध्यते, यथा पशुमालभेत व्रीहीनहन्तीति।

कुतः पुनरिदं श्रुत्युपात्ते अपि क्‍वचिदेव सङ्ख्याशक्ती विवक्ष्यते ?

तत्र तावत् सङ्ख्यां प्रति श्रूयते— १सत्त्वभूतम् इदंतदिति व्यपदेशयोग्यं वस्तु न शक्यते सङ्ख्यान्तरेण शब्दैरभिधातुम्२, ससंख्यानामेव शब्दानां सत्त्वाभिधायकत्वात्; अतो नान्तरीयकमुपादानं संख्याया इति।

सत्त्वनिर्देशे संख्या न विवक्ष्यते, यथा ब्राह्मणो न हन्तव्य इति३। एवं च जात्यापि विना वस्तुमात्रस्य संप्रमुग्धत्वाद् विवेकेनाभिधानमशक्यम्। अतो नान्तरीयकं जात्युपादानमिति जातावप्यविवक्षा प्राप्‍नोति।

अपर४ आह— यत्र संख्यापदैरेकादिभिस्संख्या अभिधीयते, तत्र नियोगतः कर्माङ्गभावेन विवक्ष्यते, यथा एकां गां ददाति, द्वाभ्यां खनति (तैसं. ५.१.४१), त्रीन् पशूनालभत इति। एकादिशब्दरूपाद्‌धि सा प्रतीयमाना न शक्यमविवक्षितुम्। अन्यत्र तु शब्दसंस्कारमात्रापरत्वादेकवचनादेरविवक्षा, यथा गौः पदा न स्प्रष्‍टव्या (न्यायवा. २.२.६७)। एतदपि नास्ति 'यस्योभयं हविरार्तिमार्छेद्' इत्येवमादावुभयादि— शब्दोपादानादप्यविवक्षादर्शनात् (न्यायमं.)।

अन्ये मन्यन्ते 'जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्' (१.२.५३) इति ज्ञापकादेकवचनं, च न विवक्ष्यते। विवक्ष्यते। द्विवचनं विवक्ष्यते, यथा 'सारस्वतौ भवतः' (तैसं. २.४.६.१) इति।

१–४. वाप. ३ जाति।

तदप्ययुक्तं, द्विवचनस्यापि अविवक्षादर्शनात्। यथा— (वाप जाति ३.१.५३)

Showing 51 to 60 of 595 verses