भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 51 to 60 of 841 verses
परापरविभागार्थास्स शक्तीः प्रतिपद्यते॥ १॥

१. वाक्‍यपदीये ३.९.३७ इति करिकाया पूर्वार्द्धम्।

स भूतादिभेदा द्वादशधा। तद्यथा—

भूतः, भूतानद्यतनः, भविष्यत्, भविष्यदनद्यतनः, वर्तमानः, वर्तमानानद्यतनः, परोक्षः, अतिपन्नः, अव्यक्तः, सङ्कीर्णः, प्रकीर्णः, विप्रकीर्ण इति।

(१. भूतः—६) लुङादिविषयोऽप्यतीतमात्रं भूतः।

स षोढा— भूतः, प्रकर्षभूतः, भूतानद्यतनः, अभिमानाद्यतनः, प्रबन्धाद्यतनः, सामीप्याद्यतन इति।

तेष्वनिर्धारितविशेषो भूतः, यथा— अकार्षीत्, निषसाद, उवास, शुश्राव, अपक्त, पक्तवानिति।

शब्दान्तरावगतप्रकर्षादनवेक्षितानद्यतनपरोक्षादिप्रत्ययः प्रकर्षभूतः, यथा— अवात्सुरिह पुरा छात्राः।

विवक्षितान्यावधिः भूतानद्यतनः, यथा— अगमान घोषात्।

रात्रिशेषे जागरणसंततौ अभिमानानद्यतनः, यथा अमुत्रावात्सम्, सकलां रात्रिं जागरितः रात्रेरप्रभातत्वादद्यतनिमं कालं मन्यते।

Showing 51 to 60 of 841 verses