(३. भविष्यत् —६) अनागतामात्रं लृडादिविशेषो भविष्यत्।
स षोढा— सामान्यभविष्यत्, विशेषभविष्यत्, लिप्साभविष्यत्, प्रबन्धाद्यतनः, सामीप्यद्यतनः प्रविभागाद्यतन इति। तेषु —
अनिर्धारितानद्यतनादिः सामान्यभविष्यत्, यथा— करिष्यति, बलिरिन्द्रो भविष्यति, कदा गमिष्यसि, एष गमिष्यामि, पक्ष्यन् व्रजति, पाचका व्रजतीति।
निर्धारिताद्यत्वविशेषो विशेषभविष्यत्, यथा— अद्य गमिष्यामीति।
लिप्सोपाधिको लिप्साभविष्यत्, यथा— यो मे भिक्षां दास्यति स स्वर्गं लोकं यास्यतीति।
अविवक्षितक्रियाविरामः प्रबन्धाद्यतनः, यथा— यावज्जीवं भृशमन्नं दास्यतीति।
विवक्षितक्रियानन्तर्यस्सामीप्याद्यतनः, यथा— येयमागामिनी पौर्णमासी अस्यामुपाध्यायोऽग्नीनाधास्यतीति।
'भविष्यति मर्यादावचनेऽवरस्मिन्', 'कालविभागे चानहोरात्राणाम्', 'परस्मिन्विभाषा' इति प्रविभागानद्यतनः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्रोदनं भोक्ष्यामहे, योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहा— यण्यास्तत्र युक्ता अध्येष्यामहे, एवं परस्मिन्विभाषेत्यपि द्रष्टव्यमिति।
(४. भविष्यदनद्यतनः —६) भविष्यन्नेवाविद्यमानाद्यतनो लुण्णिमित्तं भविष्यदनद्यतनः।
स षोढा— सामान्यानद्यतनः, लिप्सानद्यतनः, परिदेवनानद्यतनः, परावरविभागीयः, पराप्रविभागीयः, (अध्वविभाषीय) इति। तेषु—