तासां मुखैरासवगन्धगर्भैव्यर्व्याप्तान्तरास्सान्द्रकुतूहलानाम्॥ इति॥ ४॥
ब्राह्मणैरास्यत इति सर्वदैकवचनमेवेति विशेषः, साध्यत्वात्। सिद्धस्यैव वस्तुनस्संख्यायोगो युज्यते, न साध्यस्य, अपरिनिष्पन्नत्वेनाश्रयत्वानुपपत्तेः। साध्या च क्रिया प्राधान्यतः तिङ्भिरभिधीयते; तस्मान्न भेदसंख्ये इत्येका।
२. एकशेषात्। इह येषां सरूपशब्दाभिधेयानामनेकत्वं दृष्टं, तदभिधानानामेकशेषो दृष्टः। तद्यथा व्यक्तिपक्षे ब्राह्मणाः, पुरुषा इति। न च ब्राह्मणैरास्यते, पुरुषैर्गीयत इति क्रियाभिधानानामेकशेषो दृश्यते। स चायमेकशेषो व्यावर्तमानस्त्वव्याप्तमनेकत्वमपि गृहीत्वा व्यावर्तत इति एका क्रिया (मभा. १.२.६४)।
न तिङन्तान्येकशेषं प्रयोजयन्तीति (मभा. ५.३.६६)।
का पुनरत्रोपपत्तिः ? क्रिंयाप्रधानत्वमाख्यातानाम् (मभा. ३.१.६६)। तदेव चिन्त्यते। इह खलु क्रियाकारकयोः प्राधानोपसर्जनभावेन वृत्तिसंसर्गेण चतुष्टयी गतिः। क्रिया वा क्रियायां न्यग्भवति यथा चिकीर्षति, अध्यापयतीति; कारकं वा कारके यथा आक्षिकः, निष्कौशाम्बिः; कारके वा क्रिया यथा पाचकः, पचनीयम्; क्रियायां वा कारकं यथा पुत्रीयति, उपश्लोकयति। आख्यातेषु चैषामन्यतमोऽपि न प्रकारः; तत्र हि साध्या क्रिया विप्रकृता क्रमवती साधनतन्त्रा सव्यापारसाधना अपरिसमाप्ता पचादिभिरुच्यते, सिद्धानि च साधनानि तिबादिभिरभिधीयन्त इति न कस्यचित् प्राधान्यमप्राधान्यं वा। प्रत्युत प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः। प्राधान्येनेति, प्रत्ययार्थस्य प्राधान्यं स्यात्; एवं च द्विवचनबहुवचने अपि तन्निबन्धने उपपद्येते।
तन्न; सिद्धं साध्यायोपादीयते; सिद्धानि च साधनानि च, तानि परार्थमुपादीयमनानि शेषतां लभन्ते। साध्यं तु परोपकारेषु असमर्थमात्मसिद्धयेऽर्थान्तरमपेक्षमाणं तद्वैधर्म्यात् प्रधानभावमनुभवति।
नन्वेवं ह्येकशेषाभावो न सिध्यति; न ह्येकशेषाभावे प्राधान्येन गुणभावेन वा किञ्चिदाश्रीयते। पचादयो हि क्रियावचनाः, तेषामेक एवानेकसाधनसमवेतानेकत्वेन विवक्षितां क्रियामभिधास्यति।
तन्न; यद्यप्येको धातुः यथा उक्तां क्रियां ब्रवीति तथा लकारस्यानेककर्मकर्तृविषयत्वात् प्रतिसाधनमुपपत्तावनेकत्वं प्राप्नोति, तदनुरोधाच्चार्थाः प्रधानाः (वर्त्तन्त) व्यावर्तन्त इत्येकशेषारम्भः स्यात्। क्रियाप्राधान्येन तु गुणभूतयोः कर्तृकर्मणा(कृति २.३.६५) स्सुप्त इति(?)। एवं तर्हि भिन्नसाधनमभिन्नमर्थं वक्ष्यामीति एकशब्दत्वं, साधानभेदात्तु द्विवचनबहुवचनयोगः।
अन्ये ब्रुवते— यद्येकस्याः प्रकृतेस्साधानभेदे भिन्ना लकाराः प्रसज्येरन्, तथापि यथैकस्थाने एकवचनमेव द्वयोर्द्विवचनं बहूनां (बहुवचनं) भविष्यन्तीति। इदमेव हि द्विवचनबहुवचनयोः द्विवचनबहुवचनत्वं, यत्तदेकशब्दरूपमेकशेषशब्दवदनेकार्थाभिधाने समर्थमिति व्याख्यायते। इतश्च क्रियाप्रधानमाख्यातं, करोतिना प्रश्ने निर्णयार्थत्वात्। किं देवदत्तः करोतीति प्रश्ने पचति, आस्त इत्युत्तरं भवति, न त्वासकः पाचक इति (१.३.६६ काशिका)।