भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 756 verses
न चायं कर्तृप्रश्‍नः, किं देवदत्त इति, विशेषस्याभ्यन्तरीकृतत्वाद् भिन्नलिङ्गत्वाच्‍च। नापि कर्मप्रश्‍नः, अनिर्ज्ञाते व्यापारे कर्मप्रश्‍नासंभवात्; पचति पठतीति कर्तृविशेषमन्तरेण प्रतिवचने प्रष्टुः कृतार्थत्वात्; पचति पठतीति चाख्यातस्य आख्यातेनायोगात्। यदि साधनं प्रधानं स्यात्, यथा पाचकः पचतीति, सामानाधिकरण्येन न योगो भवति, यथा पचति पठतीत्यत्रापि स्यात्। न चैतदस्त्यतः क्रियाप्रधानत्वमेवाख्यातानां, क्रियाप्रधानत्वाच्‍च न एकशेषारम्भः। तदनारम्भादेकत्वम्, एकत्वेन वीप्साभावः, वीप्साभावच्‍च गन्ता गन्ता गच्छति गच्छतीति शब्दावृत्तिः, शब्दावृत्तेर्बुद्धिभेदः, बुद्धिभेदाच्‍च क्रियायाः कारकेभ्यो व्यतिरेक इति।

ननु च पचति पचतः पचन्तीति धात्वर्थ एवायं, न क्रिया।

तन्न; धात्वर्थस्य प्रत्ययार्थस्यैवावच्छेदकत्वाद्‍धात्वर्थात् तु क्रियायाः पृथक्‍त्वं साध यमानमप्रधानव्यपदेश्‍यतायामेवं संतिष्ठते। यथैव तर्हि कारकभेदेऽप्यभेदः क्रियायाः, तथा धात्वर्थभेदेऽप्यभेद एवास्तु; सत्यमेतत्। किंतु वस्तुनः सर्वथैकत्वमनेकत्वं वोच्यमानं भेदाभेदनिबन्धनं लोकव्यवहारं सर्वमतिक्रामति। तस्माद् भेदमभेदं वा अभ्युपगच्छता व्यवहारप्रसिद्ध्यर्थमभेदो भेदश्‍चाभ्युपगन्तव्यः। कस्यचित् किञ्चिन्मुख्यं किञ्चिदौपचारिकम्। सर्वो हि भेदवादी निरुपकारेष्वयः शलाकावदसंबन्धेष्वन्योन्यव्यावृत्तेषु भेदेषु तदेवेदमिति प्रत्ययस्य अभेदादेकत्वमाश्रित्य लौकिकं व्यवहारमनुगच्छति। एकत्ववादी च भेदाधिष्ठानामिव भवतां सर्वां वृत्तिं सर्वं च विशेषशब्दव्यवहारं धर्मान्तरसंसर्गपूर्वकं लोके व्यवस्थितं मन्यमानो लोकमनुगच्छन् अभिन्नमपि भेदैरेव निदर्शयति। तस्माद् भिन्नधात्वर्थावच्छिन्ना भिन्नापि क्रिया अभिन्नैवेति। एतेनैतदपि संगृहीतम्—

१. भवति व्रजति पचत्यस्ति श्वेतत इत्यादौ प्रत्ययार्थधात्वर्थयोरुद्वापावापाभ्यामन्य— त्वेनावधारितो धात्वर्थावच्छिन्नः, परिच्छिन्नकालः कालपरिच्छिन्नो वा, उपसर्गा— दिभिरुपस्कृतः, कृतप्रत्ययार्थोपकारः कारकैरसंख्यशक्तिभिस्संख्योपाध्युपकृतैरुपक्रियमाण उपक्रमप्रभृत्यपवर्ग पर्यन्तमन्तः प्रतिभया साकल्येनोल्लिख्य साध्यत्वेनाध्यवसितः तथा सूभृतो (?) बहिर्निष्पन्नः प्रक्रान्तक्रमरूपावयंवसमुदायात्मा अनपेक्षितान्तराल— क्रियान्तरोपनिपातः, तथाविधावयवो वा पुरुषव्यापारः क्रिया।

२. यथोक्तविशेषणोत्पन्नधात्वर्थो वा,

३. साध्यफलनिष्पत्तिपूर्वक्षणोपलभ्यमानतदवयवो वा

४. अवयवसमूहोपलभ्यमानैकाकारप्रत्ययनिमित्तजाति विशेषो वा,

५. पूर्वावयवोपकृतान्यावयवप्रतीयमानजातिप्रादुर्भावो वा,

६. धात्वर्थव्याप्रियमाणकर्तृकर्मणोः स्वव्यपदेशनिमित्तसत्तासंबन्धो वा, व्याप्रियमाणेषु स्वपरात्मनोः पूर्वस्वरूपविलक्षणरूपान्तराभिमानो वा,

७. तत्रैव च तयोस्तथाविधाभिन्नस्वकारणसत्तासंबन्धो वा,

Showing 81 to 90 of 756 verses