भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 81 to 90 of 841 verses
अनिर्धारितक्रियाप्रबन्धः सामान्यानद्यतनः, यथा— कर्ता कर्तारौ कर्तारः, कारिता कारितारौ कारितार इति।

शब्दान्तरावगतविशोषो विशोषानद्यतनः, यथा— त्वं पक्ता।

लिप्‍सोपाधिको लिप्सानद्यतनो यथा यो मे भिक्षां दाता स स्वर्गं लोकं गन्ता।

परिदेवनोपाधिकः परिदेवनानद्यतनः, यथा— इयं नु कदा गन्ता यैवं पादौ निदधाति, अयं तु कदाध्येता य एवमनभियुक्तः।

'कालविभागे चानहोरात्राणाम्' इत्यहोरात्रविषयः परापरविभागीयः, यथा— योऽयमागामी मासस्तस्य यः परः पञ्चदशरात्रस्तत्रौदनं भोक्तास्महे, योऽयमागामी त्रिंशद्रात्रस्तस्य योऽपरः पक्षस्तत्र युक्ता अध्येतास्महे।

परस्मिन्विभाषेत्यनहोरात्रकालध्वमर्यादाविषयः परप्रविभागीयः, यथा— योऽयमागामी संवत्सरस्तस्य यदवरमाग्रहायण्यस्तत्र पाटलिपुत्रं गन्तास्मः।

स एव अध्वविभाषाविषयोऽध्वविभाषीयः, यथा— योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्याः तत्र सक्तून् पातास्म इति।

(५. वर्तमानः —६) अवाप्‍ताप्रच्युतक्रियाविषयो लडादिनिमित्तं वर्तमानः।

(स) षोढा— सामान्यवर्तमानः, विशेषवर्तमानः, अविरामवर्तमानः, प्रवृत्तोपरतः, वृत्ताविरतः, नित्य(प्र)वृत्त इति। तेषु—

अनपेक्षितविरामादिविशेषस्सामान्यवर्तमानः, यथा— अस्ति, भवत्, कुर्वाणः, पच्यमानः, पवमानः, कवचमुद्वहमान इति।

Showing 81 to 90 of 841 verses