भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 101 to 110 of 841 verses
स्म—योगीयो यथा— इति स्मोपाध्यायः कथयति।

उभययोगीयो यथा— नडेन स्म पुराधीयते।

अनुभययोगीयो यथा— भाषते राघवस्तदेति।

(७. परोक्षः —६) भूत एव लिड्‌विषयोऽक्षाणां परः परोक्षः।

स षोढा— स्वपरोक्षः, परपरोक्षः, स्वपरपरोक्षः, मनःपरोक्षः, १प्रमाणपरोक्षः, निर्णयपरोक्ष इति। तेषु—

स्वापेक्षया परोक्षो यथा— चकार, चकार(जहार), चकासाञ्चकार, ऊषुरिह पुरा छात्रा इति।

परापेक्षया परपरोक्षो यथा कः कलिङ्गान् विवेद, को ब्राह्मणान् ददर्श, नाहं कलिङ्गान् जगामेति।

उभयापेक्षया स्वपरपरोक्षो यथा—जघान कंसं वासुदेवः, ददाह त्रिपुरं हरः, ममाथ वृत्रं मघवेति।

स्मरणापेक्षया मनःपरोक्षो यथा—इति चकार, शश्वच्‍चकार, इति ह शश्वच्‍चकारेति।२ 'प्रश्‍ने चासन्नकाल' (३.२.११७) इति निर्णयपरोक्षो यथा—

किं सा जगाम तत्पार्श्‍वं किमुवाच यथोचितम्।

Showing 101 to 110 of 841 verses