केनचिल्लिङ्गेनानीतां क्रियातिपत्तिं शुद्धामेवावगम्य प्रयङ्क्ते, यथा—न श्रद्दधे यत् तत्रभवान् वृषलमयाजयष्यित्, न संभावयामि तत्र नामाभोक्ष्यत भवान्। यथा च— (किराता. १३.४९)
१–२. उदाहृतेषु 'जो. रा. चे.' इत्येंषु विस्मृतायास्मै प्रमाणपरोक्षाय 'भुक्ता मया हि गिरय' इति (कम.) इति भैरवानन्दोक्तिरूपयुज्येत।
दुर्वचं तदथ मा स्म भून्मृगस्त्वय्यसौ यदकरिष्यदोजसा।
नैनमाशु यदि वाहिनीपतिः प्रत्यपत्स्यत सितेन पत्रिणा॥ ५॥
एवं मिश्रामपि— (रघु. ७.१४)
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्।
अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत्॥ ६॥
केनचित् प्रमाणेन वर्तमानामपि क्रियातिपत्तिं शुद्धामेवावगम्य प्रयुङ्क्ते, यथा उताकरिष्यत्, अप्यकरिष्यत्। यथा च —
गमधास्यत् कथं नागो मृणालमृदुभिः फणैः।
आरसातलमूलात् त्वमवालम्बिष्यथा न चेत्॥ ७॥