अमङ्क्ष्यद् वसुधा तोये च्युतशैलेन्द्रबन्धना।
नारायण इव श्रीमान् यदि त्वं नाधरिष्यथाः॥ ८॥
(९. अव्यक्तः —६) तिरोभूतभूतभविष्यदादिविशेषोऽव्यक्तः। षोढा—लिङ्विषयः, लोड्विषयः, लड्विविषयः, लृड्विविषयः, तव्यादिविषयः, तुमुनादिविषयश्चेति। तेषु—
लिङ्विषयो यथा कटं कुर्यात्, चिरं जीव्यात्, कथं तत्रभवान् वृषलं याजयेत्, अपि शिरसा पर्वतं भिन्द्यात्, संभावयामि भुञ्जीत भवान्, कालो यद्भुञ्जीत भवानिति।
लोड्विषयो यथा—उपाध्यायश्चेदागच्छति आगन्ता आगमिष्यति वा अथ त्वं छन्दोऽधीष्व। ऊर्ध्वं मुहूर्तादुपाध्यायश्चेदागच्छेत् आगच्छति आगन्ता आगमिष्यति वा अथ त्वं व्याकरणमधीष्व, कुरू कटं प्राप्तस्ते कालः अलवीत् लविष्यसि वेति।
लड्विषयो यथा— कदा भुङ्क्ते कर्हि भुङ्क्ते, अपि तत्रभवान् वृषलं याजयति, जातु तत्रभवान् वृषलं याजयति, कच्चिज्जीवति मे माता, कं वा विभूतयो न मदयन्तीति।
लृड्विषयो यथा— अन्धो नाम पर्वतमारोक्ष्यति, उत दण्डः पतिष्यति, कतरो नाम वृषलः यं तत्रभवान् वृषलं याजयिष्यति, न मर्षयामि न श्रद्दधे नावकल्पयामि यत् तत्रभवान् वृषलं याजयिष्यति, किं किल तत्रभवान् वृषलं याजयिष्यति (इति) 'प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो' (कुसं.२.३१), इति।