स किं शुश्राव तद्वाक्यमिति पृच्छामि किं सखि!॥ २॥
भविष्यद्भूतवर्तमानक्रियातिपत्तिविषयो लृङ्निमित्तम(प्र)तिपन्नः (मभा.३.३.१३९)। स षोढा— भविष्यद्भूतवर्तमानक्रियातिपत्तीनां शुद्धमिश्रभेदात्।
तत्र केनचिल्लिङ्गेन भविष्यन्तीं शुद्धामेव क्रियातिपत्तिमवगम्य प्रयुङ्क्ते, यथा— अपि वज्राहतेनापतिष्यत्, कथं नाम तत्रभवान् वृषलमयाजयिष्यत्, दक्षिणेन चेदयास्यत् न शकटं पर्याभविष्यत्। यथा च—
यदि सद्भिः प्रदिष्टेन पथा समचरिष्यथ।
न ते समचरिष्यन्न चरणान्ते विभूतयः॥ ३॥
एवं मिश्रामपि यथा—(मवीच. १.२७)
रामाय पुण्यमहसे सदृशाय सीता दत्तैव दाशरथिचन्द्रमसेऽभविष्यत्।
आरोपणेन पणमप्रतिकार्यमार्यस्त्रैयम्बकस्य धनुषो यदि नाऽकरिष्यत्॥ ४॥