भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 595 verses
क्रियारूपो यथा कर्तुमिच्छति चिकीर्षति, कुर्वन्तं प्रयुङ्क्ते कारयति, अत्यर्थं पुनः पुनः पचति पापच्यते।

कारकरूपो यथा पाकं करोति पचति, पाकेन क्रियते पच्यते, पाचकः पक्तव्यमिति।

प्रत्ययप्रत्ययार्थीयो द्विधा— नित्यो वैवक्षिकश्‍च। तयोः—

नित्यो यथा कृत्रिमं, सांराविणम्, व्यापक्रोशी, भिदा, आभिजित्यः कौञ्जायन्य इति।

वैवक्षिको यथा चिकीर्षुः, कारणा, गार्ग्यायणः, काल्याणिनेयः, मालायाः, कुमार्या इति।

प्रातिपदिकप्रत्ययार्थीयो द्विधा— व्यक्तिरूपः, शक्तिरूपश्‍च। तयो—

व्यक्तिरूपो यथा अजा, कुमारी, ब्रह्मबन्धुः, वृक्षः वृक्षौ वृक्षा इति।

शक्तिरूपो यथा वृक्षं, वृक्षेण, वृक्षाय, वृक्षात्, वृक्षे, वृक्षस्येति।

(२. एकपदार्थः)

एकपदार्थस्त्रिधा— वस्तुरूपः, अवस्तुरूपः, क्रियारूपश्‍च। तेषु—

Showing 111 to 120 of 595 verses