भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 91 to 100 of 595 verses
ननु मन्त्रेणानुप्रविशता किं कृतम् ?

न किञ्चित्कृतम्। सामग्र्यन्तरं तु सम्पादितम्। काचिद्धि सामग्री कस्यचित्कार्यस्य हेतुः स्वरूपं तदवस्थमेवेति चेदभक्षितमपि विषं कथं न हन्यात् ? तत्रास्यसंयोगाद्यपेक्षणीयमस्ति। मन्त्राभावोऽप्यपेक्ष्यताम्। दिव्यकाले धर्म इव मन्त्रोऽप्यनुप्रविष्टः कार्यं प्रतिहन्ति। शक्तिपक्षेऽपि वा मन्त्रस्य को व्यापारः ? मन्त्रेण हि शक्तेर्नाशो वा क्रियते प्रतिबन्धो वा ? न तावन्नाशः, मन्त्रापगमे पुनः कार्यदर्शनात्। प्रतिबन्धस्तु स्वरूपस्यैवास्तु।

ननु स्वरूपस्य कि जातम् ?

शक्तेरपि किं जातम् ?

कार्यौदासीन्यमिति चेत्तदितरत्रापि समानं स्वरूपमस्त्येव, दृश्‍यमानत्वात्। शक्तिरप्यस्ति पुनः कार्यदर्शनानुमेयत्वात्। एतेन चक्षुःश्रोत्रयोरपि रोगादिना दर्शनश्रवणशक्तेर्नाशप्रतिबन्धविकल्पो व्याख्यातः। अपि च व्यापारोऽपि अतीन्द्रिय— शक्तिवदिष्यते भवद्‍‌भिः; अन्यतरकल्पनयैव च कार्योपपत्तेः किमुभयकल्पनागौरवेण ?

शक्तमप्यव्याप्रियमाणं न कारकमिति चेत् शक्तमिति कथं ज्ञायेत ?

कार्यदर्शनादिति चेद् व्यापारादेव कार्यं सेत्स्यति। पादुकादेर्व्याप्रियमाणादपि न पादपच्छेदं पश्‍यामि। प्रत्यक्षस्तर्हि व्यापारो नातीन्द्रियः यतः कार्यदर्शनात् पूर्वमपि व्याप्रियमाणत्वं जानासि। कार्यानुमेयो हि व्यापारः कार्याद् विना न ज्ञायेतैव। कार्यं त्वन्यतरस्मादपि घटमानं नोभयं कल्पयितुं प्रभवतीत्यसम्भवः। शक्तेरिति चेदत्रोच्यते स्वरूपं स्वरूपमिति यदब्रूषे तत्र किमिदं स्वरूपं नाम ? न तावद्‌द्रव्यं; द्रव्यस्य स्वरूपमिति भेदेनाभिधानात्। किं पुनस्तत् ? सजातीयेभ्यो विजातीयेभ्यश्‍च भेदको धर्म इति नस्तर्कः। तं हि भवन्तोऽपि अर्थतत्त्वं भावतत्त्वमिति भावप्रत्ययेन भाषन्ते। स च यस्य गुणस्य भावाद्‌द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ (५.१.११९) इति गुणाभिधाने स्मर्यते। गुणो धर्मः सामर्थ्यमर्थक्रियाकारित्वमतिशयश्शक्तिरिति चौकोऽर्थः।

स तु द्रव्याद् विभिन्नो वा द्रव्यस्यात्मैव वा तथा।

व्यतिरेकमुपाश्रित्य साधनत्वाय कल्पते॥ १०॥

(वाप.३.७.१५)

Showing 91 to 100 of 595 verses