परोक्षादिविषयो विशेषवर्तमानः, यथा— अत्र वटे यक्षः प्रतिवसति।
विवक्षितक्रियाप्रबन्धोऽविरामवर्तमानः, यथा— प्रासादं करोति।
विवक्षितप्रवृत्तिविरामः प्रवृत्तोपरतः, यथा— जीवन्तं मारयति।
अविवक्षितप्रवृत्तिविरामो वृत्ताविरतः, यथा— इह कुमाराः क्रीडन्ति।
अविच्छिन्नप्रवृत्तिसंतानो नित्यप्रवृत्तः, यथा— तिष्ठति पर्वत इति।
(६. वर्तमानानद्यतनः—६) अनागतातिक्रान्तक्रियास्वपि पदान्तरप्रयोगापादितवर्तमानत्वाल्लटो निमित्तमविद्यमानानद्यतनो वर्तमानानद्यतनः।
स षोढा— लिप्साविषयः, आशंसाविषय, पुरायोगीयः, स्मयोगीयः, उभययोगीयः, अनुभययोगीय इति। तेषु—
लिप्साविषयो यथा— यो मे भिक्षां ददाति स स्वर्गं लोकं याति, को मे भिक्षां ददाति, कस्स्वर्गं लोकं याति; एवं कतरो मे भिक्षां ददाति, कतमो मे भिक्षां ददाति।
आशंसाविषयो यथा— देवश्चेद् वर्षति संपद्यन्ते शालयः।
पुरायोगीयो यथा— वसन्तीह पुरा छात्राः।