श्रृङ्गारप्रकाशे पञ्चमः प्रकाशः
उपाध्याद्यर्थचतुष्टयप्रकाशो नाम
प्रकृत्यर्थप्रत्ययार्थभेदेषु कारकाणां प्रवृत्तिविशेषः क्रियाः तामनुपहितां कृभ्वस्तयो वदन्ति। तेषां परस्परमसंभेदसंभेदाभ्यां साम्योत्कर्षापकर्षजन्मानो द्वादश धात्वर्थभेदाः क्रिया भवन्ति। तद्यथा —
अकर्मकाः अन्तःकर्मकाः, अर्थान्तरकर्मकाः, अविवक्षितकर्मकाः, प्रसिद्धकर्मकाः, द्विकर्मकाः, प्रसिद्धकर्तृकाः, भावकर्तृकाः, कर्मकर्तृकाः, कर्तृस्थक्रियाः, कर्मस्थक्रियाः, उभयस्थक्रियाश्चेति।
ते चापरिस्पन्दसपरिस्पन्दभेदात् प्रत्येकं द्विधा भूत्वा चतुर्विंशतिर्जायन्ते।
तत्र स्वभावतोऽस्तिस्तु उदासीनकर्तृकत्वाद् अपरिस्पन्दः।
करोतिः प्रयुञ्जानकर्तृकत्वात् सपरिस्पन्दः।