८. बुद्धिसत्ताभावेषु प्रत्यस्तमितरूपमनेकबुद्ध्यनुस्यूतं बुद्धिसामान्यं वा क्रियाशब्दे— नाभिधीयते। अपि च—
यावत् सिद्धमसिद्धं वा साध्यत्वेन विवक्षितम्।
आश्रितक्रमरूपत्वात् तत् क्रियेत्यभिधीयते॥ ५॥
सा च कार्यानुमेयत्वात् परोक्षेत्येके। गच्छतिपचत्यादिप्रत्ययेषु प्रत्यक्षेण, देवदत्तादिस्वरूपेऽतिरिक्तक्रियातत्त्वानुपलब्धेः। तथा हि—
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते॥ ६॥
किंतु चलतीति प्रतीतिः संयोगविभागमालम्बते, संयोगविभागः कदाचिदेवोत्पद्यमानः परिदृश्यमानपदार्थस्वरूपातिरिक्तं कारणमनुमापयति, यच्च कारणं स परिस्पन्दप्रयत्नादिरूपः पुरुषव्यापारोऽतीन्द्रियः क्रियेति।